Krsna Kirtana Songs
est. 2001 www.kksongs.org
Home à Languages and Pronunciation à Indian Scripts Page à I
Song Name: ISKCON Pranamas
Author: Traditional
Book Name: None
Language: Sanskrit
श्री गुरु प्रणाम
ॐ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
श्री रूप प्रणाम
श्रीचैतन्यमनोऽभीष्टं स्थापितं येन भूतले
स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्
मङ्गलाचरण
वन्देऽहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरुन्वैष्णवांश्च
श्रीरूपं साग्रजातं सहगणरघुनाथान्वितं तं स जीवम्
साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं
श्रीराधाकृष्णपादान्सहगणललिता श्रीविशाखान्वितांश्च
श्रील प्रभुपाद प्रणति
नम ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले
श्रीमते भक्तिवेदान्तस्वामिनिति नामिने
नमस्ते सारस्वते देवे गौरवाणीप्रचारिणे
निर्विशेषशून्यवादिपाश्चात्यदेशतारिणे
श्रील भक्तिसिद्धान्त सरस्वती प्रणति
नम ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले
श्रीमते भक्तिसिद्धान्तसरस्वतीति नामिने
श्रीवार्षभानवीदेवीदयिताय कृपाब्धये
कृष्णसम्बन्धविज्ञानदायिने प्रभवे नमः
माधुर्योज्ज्वलप्रेमाढ्यश्रीरूपानुगभक्तिद
श्रीगौरकरुणाशक्तिविग्रहाय नमोऽस्तु ते
नमस्ते गौरवाणीश्रीमूर्तये दीनतारिणे
रूपानुगविरुद्धापसिद्धान्तध्वान्तहारिणे
श्रील गौरकिशोर प्रणति
नमो गौरकिशोराय साक्षाद्वैराग्यमूर्तये
विप्रलम्भरसाम्भोदे पादाम्बुजाय ते नमः
श्रील भक्तिविनोद प्रणति
नमो भक्तिविनोदाय सच्चिदानन्दनामिने
गौरशक्तिस्वरूपाय रूपानुगवराय ते
श्रील जगन्नाथ प्रणति
गौराविर्भावभूमेस्त्वं निर्देष्टा सज्जनप्रियः
वैष्णवसार्वभौमः ष्रीजगन्नाथाय ते नमः
श्री वैष्णव प्रणाम
वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः
श्री गौराङ्ग प्रणाम
नमो महावदान्याय कृष्णप्रेमप्रदाय ते
कृष्णाय कृष्णचैतन्यनाम्ने गौरत्विषे नमः
श्री पञ्चतत्त्व प्रणाम
पञ्चतत्त्वात्मकं कृष्णं भक्तरूपस्वरूपकम्
भक्तावतारं भक्ताख्यं नमामि भक्तशक्तिकम्
श्री कृष्ण प्रणाम
हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते
सम्बन्धाधिदेव प्रणाम
जयतां सुरतौ पङ्गोर्मम मन्दमतेर्गती
मत्सर्वस्वपदाम्भोजौ राधामदनमोहनौ
अभिधेयाधिदेव प्रणाम
दीव्यद्वृन्दारण्यकल्पद्रुमाधः
श्रीमद्रत्नागारसिंहासनस्थौ
श्रीमद्राधाश्रीलगोविन्ददेवौ
प्रेष्ठालीभिः सेव्यमानौ स्मरामि
प्रयोजनाधिदेव प्रणाम
श्रीमान्रासरसारम्भी वंशीवटतटस्थितः
कर्षन्वेणुस्वनैर्गोपीर्गोपीनाथः श्रियेऽस्तु नः
श्री राधा प्रणाम
तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि
वृषभानुसुते देवी प्रणमामि हरिप्रिये
पञ्चतत्त्व महामन्त्र
(जय) श्रीकृष्णचैतन्य प्रभु नित्यानन्द
श्रीअद्वैत गदाधर श्रीवासादिगौरभक्तवृन्द
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा
हरे कृष्ण महामन्त्र
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
हरे राम
हरे राम
राम
राम
हरे हरे
UPDATED:
May 15, 2010