Krsna Kirtana Songs
est. 2001 www.kksongs.org
Home à Languages and Pronunciation à Indian Scripts Page à M
Song Name: Madhuram
Madhurebhyo Pi
Author: Anonymous
Book Name: None
Language: Sanskrit
(१)
मधुरं मधुरेभ्योऽपि
मङ्गलेभ्योऽपि मङ्गलम्
पावनं पावनेभ्योऽपि
हरेर्नामैव केवलम्
(२)
आब्रह्मास्तम्बपर्यन्तं
सर्वं मायामयं जगत्
सत्यं सत्यं पुनः सत्यं
हरेर्नामैव केवलम्
(३)
स गुरुः स पिता चापि
सा माता बन्धवोऽपि सः
शिक्षयेच्चेत्सदा स्मर्तुं
हरेर्नामैव केवलम्
(४)
निःश्वासे नाहि विश्वासः
कदा रुद्धो भविष्यति
कीर्तनीय मतो बाल्याद्
हरेर्नामैव केवलम्
(५)
हरिः सदा वसेत्तत्र
यत्र भागवता जनाः
गायन्ति भक्तिभावेन
हरेर्नामैव केवलम्
(६)
अहो दुःखं महादुःखं
दुःखाद्दुःखतरं यतः
काचार्थं विस्मृतम्रत्न-
हरेर्नामैव केवलम्
(७)
दीयतां दीयतां कर्णो
नीयतां नीयतां वचः
गीयतां गीयतां नित्यं
हरेर्नामैव केवलम्
(८)
तृणीकृत्य जगत्सर्वं
राजते सकलोपरि
चिदानन्दमयं शुद्धं
हरेर्नामैव केवलम्
UPDATED:
June 21, 2011