http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                www.kksongs.org


Home Song Lyrics A

Song Name: Atraiva Tattva Vijnanam

Official Name: Chapter 2; Bhagavac-chakti Varnanam

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

 

A

 

LYRICS:

()

अत्रैव तत्त्वविज्ञानं ज्ञातव्यं सततं बुधैः

शक्तिशक्तिमतोर्भेदो नास्त्येव परमात्मनि

 

()

तथापि श्रूयतेऽस्माभिः परा शक्तिः परात्मनः

अचिन्त्यभावसम्पन्ना शक्तिमन्तं प्रकाशयेत्

 

()

सा शक्तिः सन्धिनी भूत्वा सत्ताजातं वितन्यते

पीठसत्तास्वरुपा सा वैकुण्ठरूपिणी सती

 

()

कृष्णाद्याख्याभिधा सत्ता रूपसत्ता कलेवरम्

राधाद्या सङ्गिनीसत्ता सर्वसत्ता तु सन्धिनी

 

()

सन्धिनीशक्तिसम्भूताः सम्बन्धा विविधा मताः

सर्वाधारस्वरूपेयं सर्वाकारा सदंशका

 

()

संविद्भूता परा शक्तिर्ज्ञानविज्ञानरूपिणी

सन्धिनीनिर्मिते सत्त्वे भावसंयोजिनी सती

 

()

भावाभावे सत्तायां किञ्चिदपि लक्ष्यते

तस्मात्तु सर्वभावानां संविदेव प्रकाशिनी

 

()

सन्धिनीकृतसत्त्वेषु सम्बन्धभावयोजिका

संविद्रूपा महादेवी कार्याकार्यविधायिनी

 

()

विशेषाभावतः संविद्ब्रह्मज्ञानं प्रकाशयेत्

विशेषसंयुता सा तु भगवद्भक्तिदायिनी

 

(१०)

ह्लादिनीनामसम्प्राप्ता सैव शक्तिः पराख्यिका

महाभावादिषु स्थित्वा परमानन्ददायिनी

 

(११)

सर्वोर्ध्वभावसम्पन्ना कृष्णार्धरूपधारिणी

राधिका सत्त्वरूपेण कृष्णानन्दमयी किल

 

(१२)

महाभावस्वरूपेयं राधा कृष्णविनोदिनी

सख्य अष्टविधा भावा ह्लादिन्या रसपोषिकाः

 

(१३)

तत्तद्भावगता जीवा नित्यानन्दपरायणाः

सर्वदा जीवसत्तायां भावानां विमला स्थितिः

 

(१४)

ह्लादिनी सन्धिनी संविदेका कृष्णे परात्परे

यस्य स्वांशविलासेषु नित्या सा त्रितयात्मिका

 

(१५)

एतत्सर्वं स्वतः कृष्णे निर्गुणेऽपि किलाद्भुतम्

चिच्छक्तिरतिसम्भूतं चिद्विभूतिस्वरूपतः

 

(१६)

जीवशक्तिसमुद्भूतो विलासोऽन्यः प्रकीर्तितः

जीवस्य भिन्नतत्त्वत्वात्विभिन्नांशो निगद्यते

 

(१७)

परमाणुसमा जीवाः कृष्णार्ककरवर्तिनः

तत्तेषु कृष्णधर्माणां सद्भावो वर्तते स्वतः

 

(१८)

समुद्रस्य यथा बिन्दुः पृथिव्या रेणवो यथा

तथा भगवतो जीवे गुणानां वर्तमानता

 

(१९)

ह्लादिनी सन्धिनी संवित्कृष्णे पूर्णतमा मता

जीवे त्वणुस्वरूपेण द्रष्टव्या सूक्ष्मबुद्धिभिः

 

(२०)

स्वातन्त्र्ये वर्तमानेऽपि जीवानां भद्रकाङ्क्षिणाम्

शक्तयोऽनुगताः शश्वत्कृष्णेच्छायाः स्वभावतः

 

(२१)

ये तु भोगरता मूढास्ते स्वशक्तिपरायणाः

भ्रमन्ति कर्ममार्गेषु प्रपञ्चे दुर्निबारिते

 

(२२)

तत्रैव कर्ममार्गेषु भ्रमत्सु जन्तुषु प्रभुः

परमात्मस्वरूपेण वर्तते लीलया स्वयम्

 

(२३)

एषा जीवेशयोर्लीला मायया वर्ततेऽधुना

एकः कर्मफलं भुङ्क्ते चापरः फलदायकः

 

(२४)

जीवशक्तिगता सा तु सन्धिनी सत्त्वरूपिणी

स्वर्गादिलोकमारभ्य पारक्यं सृजति स्वयम्

 

(२५)

कर्म कर्मफलं दुःखं सुखं वा तत्र वर्तते

पापपुण्यादिकं सर्वमाशापाशादिकं हि यत्

 

(२६)

जीवशक्तिगता संविदीशज्ञानं प्रकाशयेत्

ज्ञानेन येन जीवानामात्मन्यात्मा हि लक्ष्यते

 

(२७)

वैराग्यमपि जीवानां संविदा सम्प्रवर्तते

कदाचिल्लयवाञ्छा तु प्रबला भवति ध्रुवम्

 

(२८)

जीवे या ह्लादिनीशक्तिरीशभक्तिस्वरूपिणी

मायानिषेधिका सा तु निराकारपरायणा

 

(२९)

चिच्छक्तिरतिभिन्नत्वादीशभक्तिः कदाचन

प्रीतिरूपमाप्नोति सदा शुष्का स्वभावतः

 

(३०)

कृतज्ञताभावयुक्ता प्रार्थना वर्तते हरौ

संसृतेः पुष्टिवाञ्छा वा वैराग्यभावनायुता

 

(३१)

कदाचिद्भावबाहुल्यादश्रु वा वर्तते दृशोः

तथापि भवेद्भावः श्रीकृष्णे चिद्विलासिनि

 

(३२)

विभिन्नांशगता लीला कृष्णस्य परमात्मनः

जीवानां बद्धभूतानां सम्बन्धे विद्यते किल

 

(३३)

चिद्विलासरता ये तु चिच्छक्तिपालिताः सदा

तेषामात्मयोगेन ब्रह्मज्ञानेन वा फलम्

 

(३४)

माया तु जडयोनित्वाच्चिद्धर्मपरिवर्तिनी

आवरणात्मिका शक्तिरीशस्य परिचारिका

 

(३५)

चिच्छक्तेः प्रतिबिम्बत्वान्मायया भिन्नता कुतः

प्रतिच्छाया भवेद्भिन्ना वस्तुनो कदाचन

 

(३६)

तस्मान्मायाकृते विश्वे यद्यद्भाति विशेषतः

तत्तदेव प्रतिछाया चिच्छक्तेर्जलचन्द्रवत्

 

(३७)

मायया बिम्बितं सर्वं प्रपञ्चः शब्द्यते बुधैः

जीवस्य बन्धने शक्तमीशस्य लीलया सदा

 

(३८)

वस्तुनः शुद्धभावत्वं छायायां वर्तते कुतः

तस्मान्मायाकृते विश्वे हेयत्वं परिदृश्यते

(३९)

सा माया सन्धिनी भूत्वा देशबुद्धिं तनोति हि

आकृतौ विस्तृतौ व्याप्ता प्रपञ्चे वर्तते जडा

 

(४०)

जीवानां मर्त्यदेहादौ सर्वाणि करणानि

तिष्ठन्ति परिमेयानि भौतिकानि भवाय हि

 

(४१)

संविद्रूपा महामाया लिङ्गरूपविधायिनी

अहङ्कारात्मकं चित्तं बद्धजीवे तनोत्यहो

 

(४२)

सा शक्तिश्चेतसो बुद्धिरिन्द्रिये बोधरूपिणी

मनस्येव स्मृतिः शश्वत्विषयज्ञानदायिनी

 

(४३)

विषयज्ञानमेव स्यान्मायिकं नात्मधर्मकम्

प्रकृतेर्गुणसंयुक्तं प्राकृतं कथ्यते जनैः

 

(४४)

सा मायाह्लादिनी प्रीतिर्विषयेषु भवेत्किल

कर्मानन्दस्वरूपा भुक्तिभावप्रदायिनी

 

(४५)

यज्ञेशभजनं शश्वत्तत्प्रीतिकारकं भवेत्

त्रिवर्गविषयो धर्मो लक्षितस्तत्र कर्मिभिः

 

UPDATED: February 1, 2017