Krsna Kirtana Songs
est. 2001 www.kksongs.org
Home à Languages and Pronunciation à Indian Scripts Page à K
Song Name: Kadacit Kalindi Tata (Sri
Jagannathastakam)
Author: Adi Sankaracarya
Book Name: None
Language: Sanskrit
(१)
कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो
मुदाभीरीनारीवदनकमलास्वादमधुपः
रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(२)
भुजे सव्ये वेणुं शिरसि शिखिपुच्छम् कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(३)
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन् प्रासादान्तः सहजबलभद्रेण बलिना
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(४)
कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीरामः स्फुरदमलपङ्केरुहमुखः
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(५)
रथारूढो गच्छन्पथि मिलितभूदेवपटलैः
स्तुतिप्रादुर्भावम् प्रतिपदमुपाकर्ण्य सदयः
दयासिन्धुर्बन्धुः सकल जगतां सिन्धुसुतया
जगन्नाथह् स्वामी नयनपथगामी भवतु मे
(६)
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(७)
न वै याचे राज्यं न च कनकमाणिक्यविभवं
न याचेऽहं रम्यां सकल जनकाम्यां वरवधूम्
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(८)
हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिं अपरां यादवपते
अहो दीनेऽनाथे निहितचरणो निश्चितमिदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे
(९)
जगन्नाथाष्टकं पुन्यं यः पठेत्प्रयतः शुचिः
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति
UPDATED:
May 15, 2010